बृहत्-जालस्य त्वरितः योगः (Fast Internet Connection)
२००६-१०-१४ शनिवासरः (2006-10-14 Saturday)
अद्य अस्माकं गृहे त्वरितः बृहत्-जालास्य योगः अभवत्। एषः योगः वितन्तुकः (wireless) अपि अस्ति। द्वि संगणित्रे एकसार्थं बृहत्-जाले योजयितुं शक्यते।
मम मित्रस्य जन्मदिवसः (My Friend's Birthday)
२००६-१०-१३ शुक्रवासरः (2006-10-13 Friday)
अद्य मम सिडनीनगरवासीनः मित्रस्य विवेकस्य जन्मदिवसः अस्ति। प्रातः अहं विवेकं विद्युत-पत्रं प्रेषितवान्। विद्युतपत्रे मया लिखितम् - त्वम् इदानीम् एकाधिक-पञ्चाशत्-वर्षीयः अस्ति भगवत्-नाम स्मरणीयं इति। सः प्रतिवचने (in reply) मह्यं प्रवचनम् अलिखत्। सायंकाले अपि सः दूरभाषेण वार्तालापम् अकरोत्। तदापि सः मां प्रवचनम् अददात्। अहं विचारं करोमि अद्य तस्य जन्मदिवसः अस्ति अथवा मम।
कतिवादनम् अभ्यासः (What's the time? - Exercise)
२००६-१०-१२ गुरुवासरः (2006-10-12 Thursday)
Learn Sanskrit The Natural Way, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी - ६०५००२, पृष्ठः ५५।
(12.25) दिवा पञ्चविंशत्यधिक-द्वादशवादनम्। (11.30) सार्ध-एकादशवादनम्। (6.35) प्रातः पञ्चत्रिंशत्यधिकषठ्वादनम्। (6.35) प्रातः पञ्चविंशत्यून सप्तवादनम्। (9.40) दिवा विंशत्यून-दशवादनम्। (9.45) दिवा पादोन-दशवादनम्। (4.45) सायं पादोन-पञ्चवादनम्। (3.50) सायं दशोन-चतुर्वादनम्। (2.55) दिवा पञ्चोन-त्रिवादनम्। (1 AM) रात्रौ एकवादनम्। (2 PM) दिवा द्विवादनम्।
ओकलेण्डनिवासी संदीपः आगच्छत् (Auckland residing Sandeep visited)
२००६-१०-११ बुधवासरः (2006-10-11 Wednesday)
अद्य प्रातः एकः दूरभाषः आगच्छत्। दूरभाषेण मम भार्यया मितया सह संदीपः समवदत्। मीता संदीपः कः अस्ति इति व्यस्मरत्। संदीपः तदा अकथयत् अहं ओकलेण्डनिवासी संदीपः अहं द्विदिवसाय केन्बरानगरे अस्मि इति। तदा मीता अस्मरत् संदीपः कः अस्ति। आवां द्विवर्षपर्यन्तम् 1987-88 ओकलेण्डनगरे अवसताम्। तदा संदीपः षोडशवर्षीयः बालकः आसीत्। इदानीम् सः orthopdedic surgeon अस्ति। यावात् आवाम् ओकलेण्डनगरे वसावः तावत् तस्य परिवारस्य आवयोः विशेषा कृपा आसीत्। संदीपः सायंकाले भोजनाय गृहम् आगच्छत्। तेन सह मिलित्वा वार्तालापं कृत्वा वयम् अती आनन्दिताः अभवन्।
सार्ध-सपाद-पादोन वादनम् (Half-quarter past-quarter to)
२००६-१०-१० मञ्गलवासरः (2006-10-10 Tuesday)
मीता प्रातः सपाद-षड्वादने जागर्ति। अहं प्रातः सार्ध-षड्वादने जागर्मि। ज्वलिता पादोन-सप्तवादने जागर्ति।
Learn Sanskrit The Natural Way, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी - ६०५००२, पञ्चपञ्चाशतपृष्ठतः अभ्यासः -
प्रातः पञ्चाधिक-पञ्चवादनम् (5.05am)। प्रातः दशादिक-सप्तवादनम् (7.10am)। प्रातः सपाद-नववादनम् (9.15am)। दिवा विंशत्यधिक-दशवादनम् (10.20am)।
कतिवादनम् (What's the time?)
२००६-१०-०९ सोमवासरः (2006-10-09 Monday)
अधुना कः समयः? अधुना का वेला? अधुना कतिवादनम्? (What's the time now?)
एक-द्वि-त्रि-चतुर्-पञ्च-षड्-सप्त-अष्ट-नव-दश-एकादश-द्वादश-वादनम्। यथा -
अधुना एकवादनम्। अधुना प्रातः षड्-वादनम्।
केन्बरानगरं पुनः प्राप्तम् (Returned to Canberra)
२००६-१०-०८ रविवासरः (2006-10-08 Sunday)
अद्य प्रातः उत्थाय अहं राजीवः च क्रिया-योगम् अकुर्व। रविवारे अहं साधारणतः सायंकाले पञ्चवादने शुचितादिव्यांशुभ्यां सह करोमि। किन्तु अद्य राजीवेन सह अकरवं यतो हि कदाचित् केन्बरानगरं तत् समयपूर्वं न प्राप्स्यामि। राजीवस्य भार्या अतीव स्वादिष्टः प्रातराशः अपचत्। वयं तत् प्रातराशं सुखेन अखादाम। तत् परं विलियमवर्यः पुनः आवाम् अमिलत्। वयं कापेयं अपिबाम तत् परम् अहं केन्बरानगराय गमनम् अकरवम्। अत्र अहं त्रिवादने प्राप्तवान्।
भ्रातृजया सह मिलनम् (Meeting with my niece)
२००६-१०-०७ शनिवासरः (2006-10-07 Saturday)
अद्य प्रातः उत्थाय वयं शनैः-शनैः असज्जाम (got ready)। मम भ्रातृजा अभ्यासाय सिडनीनगरम् जूनमासे आगच्छत्। किन्तु तदा अहं स्वयं औस्ट्रेलियातः बहिः अगच्छम्। अधुना अहं सिडनीनगरे अस्मि तथा ताम् मेलिष्यामि इति अमन्ये। सा प्रातः षड्-वादनात् मध्याह्ने एक-वादनं यावत् कार्यं करोति। अहं तया सह सायंकाले मिलनं निश्चितम् अकरवम्। किन्तु तत् पूर्वं अहं मम मित्रेण राजीवेन सह तस्य अग्रजां मिलनाय अगच्छम्। सा आवाम् अखादयत् (made us eat)। ततः आवयोः मित्रस्य विवेकस्य गृहम् अगच्छाव। ततः अन्ते मम भ्रातृजायां गृहे सार्ध-सप्तवादने प्राप्तम्। तस्य गृहः नवीनः अस्ति अति सुन्दरः च अस्ति। अहं तत् दृष्ट्वा अतीवः प्रसन्नः अभवम्। ततः नातीदूरे मन्दिरम् अगच्छम्। पुनः राजीवस्य गृहम् प्राप्य स्वपिमि।
किञ्चिदपि अवकाशं नास्ति (There not even a little time)
२००६-१०-०६ शुक्रवासरः (2006-10-06 Friday)
अद्य रात्रौ अहं भोजनिलये (in a hotel) स्थास्यामि तदा संस्कृताय प्रचुर समयः भविष्यति इति अहम् पुनः अमन्ये। किन्तु मम मित्रं राजीवः अकथयत् - कथं भोजनिलये तिष्ठसि कथं न अस्माकं गृहम् आगच्छसि। तस्य आग्रहं मत्वा अहं तस्य गृहम् आगच्छम्। सायंकाले आवयोः मित्रं विलियमवर्यः अपि तत्र आगच्छत्। वयं रात्रौ द्वादशवादनं पर्यन्तम् अजल्पाम। किं करोमि अद्य अपि संस्कृतस्य किञ्चिदपि अभ्यासं नाभवत्।
अवकाशं नास्ति (There is no time)
२००६-१०-०५ गुरुवासरः (2006-10-05 Thursday)
अद्य रात्रौ अहं भोजनिलये (in a hotel) स्थास्यामि तदा संस्कृताय प्रचुर समयः भविष्यति इति अहम् अमन्ये। किन्तु सायंकाले एकेन मित्रेण सह अमिलं तद् परं तस्य गृहे भोजनाय अगच्छं तद् परं स्वामिनं प्रज्ञानन्दं मिलनाय अगच्छम्। अन्ते भोजनिलये सार्ध-एकादशवादने प्राप्तम्। अधुना अहं क्लान्तः अस्मि तथा स्वपिमि।
श्वः सिडनीनगरं गमिष्यामि (Going to Sydney Tomorrow)
२००६-१०-०४ बुधवासरः (2006-10-04 Wednesday)
श्वः अहं सिडनीनगरं गमिष्यामि। तत्र विश्वविद्यालये एकेन सहकर्मिना सह शोधकार्याय वित्तयाचनाय आवेदनपत्रं लेखिष्यामि।
ज्वलिता मम कार्यालये (Jwalita in my office)
२००६-१०-०३ मङ्गलवासरः (2006-10-03 Tuesday)
अद्य प्रभृति अत्र विद्यालयानां द्विसप्ताहपर्यन्तम् अवकाशः अस्ति। अद्य आवयोः कन्या ज्वलिता मम कार्यालयम् आगच्छत्। अष्टवादने आवयोः कन्यां शुचितां आवां तस्याः कार्ये अनयाव तत् परं मम कार्यालयम् अगच्छाव। ज्वलीता प्रथमं तु एकं पुस्तकम् अपठत्। तत् परं मया सह किञ्चित् गणितं अकरोत्। सा तत् परं किञ्चित् शब्दानाम् spelling अस्मरत्। मध्ये-मध्ये सा बृहत्-जाले बालखेलम् अखेलत्। सायंकाले आवां गृहं प्रत्यागच्छतां किन्तु सर्वस्मिन् काले सा एकवारम् अपि अहं किं कुर्याम् इति न अवदत्।
स्वामिनोः गमनम् (Swamijis Depart)
२००६-१०-०२ सोमवासरः (2006-10-02 Monday)
अद्य प्रातःपादोनसप्तवादने (quarter to seven in the morning) स्वामी प्रज्ञानन्दः स्वामी समर्पणानन्दः मेल्बोर्ननगरम् अगच्छताम्। अहं प्रायः एकसप्ताहपर्यन्तं ताभ्यां सह आसम्। अहं दुखितः अभवं किन्तु विमानस्थले एका महिला शिष्या स्वामिनौ गन्तुं दृष्ट्वा अक्रन्दत्।
अद्य अत्र कार्यालयानां अवकाशः अस्ति। भारते च अवकाशः अस्ति। द्वयोः कारणं भिन्नम् अस्ति। अत्र श्रमिकः दिवसः भारते महात्मागांधी-जन्मदिवसः अस्ति।
भूमिपूजनम् (Bhoomipuja)
२००६-१०-०१ रविवासरः (2006-10-01 Sunday)
अद्य नवरात्र्याः नवमिः अस्ति। अद्य अस्माकं मित्रस्य जयवर्यस्य भविष्य-गृहस्य भूनिपूजनम् आसीत्। तेन पूजानं कर्तुं अहं निवेदितं। प्रथमं सः अकथयत् केवलम् स्वल्पं गणपति-पूजनं कुरु इति। किन्तु अद्य प्रातःकाले हवनं च कुरु इति निवेदितम्। भगवत्कृपया अद्य उष्णं वातावरणम् आसीत् तस्मात् बहिः उपविश्य पूजनं सुखेन अभवत्। पूजनं पूर्वं वयं एकं क्रिया-योगस्य अभ्यासम् अकुर्म पूजनं परं द्वितीयवारम् अभ्यासम् अकुर्म।
चेन्तेर्स्त्रोन्ग्ण्ट् षीष्षेप्तेम्बेर् २००६ण्ट्स्त्रोन्ग्अ नमेतोप्अचेन्तेर्
ष्आण् च्लस्स्ऱ्ट्ष्१ प् अलिग्न्लेफ़्त् षन्स्क्रित् परग्रफ्स् व्रित्तेन् अस् अ प्रच्तिचे इन्
लेर्निन्ग् चन् बे सेन् इन् डेवनगरि उसिन्ग् थे ह्त्म्ल् लिन्क्स्। ईफ़् यो
चन्नोत् से इत् इन् डेवनगरि थेन् पेर्हप्स् यो नेद् तो इन्स्तल्ल् थे
षन्स्क्रित्२००३ फ़ोन्त् ओर् अनोथेर् ऊनिचोदे फ़ोन्त् व्हिच् सुप्पोर्त्स् डेवनगरि
चरच्तेर्स्।
लेसे से थे अ ह्रेफ़्॥॥इन्देक्ष्त्म्ल्मैन्पगेअ फ़ोर्
इन्स्त्रुच्तिन्स्। ठे ईत्रन्स् वेर्सिन् ओफ़् थे मेस्सगे चन् बे विवेद् अन्द्
चोपिद् फ़्रोम् थे त्क्ष्त् लिन्क्स्। ईत् विल्ल् हेल्प् मे ग्रेत्ल्य् इफ़् फ़ेल्लोव्
लेर्नेर्स् ओर् तेचेर्स् चन् चोर्रेच्त् थे इत्रन्स् वेर्सिन् अन्द् सेन्द् इत् बच्क्
तो मे ओर् सिम्प्ल्य् सेन्द् अन् ए-मैल् पोन्तिन्ग् ओत् मिस्तकेस् अन्द् पोस्सिब्ले
चोर्रेच्तिन्स्।प्
धम्मपदः - २ (Dhaammapada - 3)
२००६-०९-३० शनिवासरः (2006-09-30 Saturday)
भगवतः बुद्धस्य एकस्य उपदेशस्य संग्रहः धम्मपदः इति अभिधीयते। तस्मिन् त्रिविंशति-अधिक-चतुर्शतं श्लोकाः सन्ति। बुद्धानुयायिनः ते श्लोकाः गाथाः इति कथ्यते। बहवः श्लोकाः युगले (in pairs) सन्ति। यथा
शुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु असंवृतम्।
भोजनेऽमात्राज्ञं कुसीदं हीनवीर्यं।
तं वै प्रसहति मारो वातो वृक्षमिव दुर्बलम्॥१॥
He who, looking at beauty of forms wanders with unrestrained senses, doesn't know the right quantity in eating, is lazy and coward him Mara conquers as the wind a weak tree.||1||
कुसीद - lazy, प्रसहति - conquers
अशुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु सुसंवृतम्।
भोजने च मात्राज्ञं श्रद्धां आरब्धवीर्यम्।
तं वै न प्रसहते मारो वातः शैलमिव पर्वतम्॥२॥
He who, discerning the limitations of forms wanders with restrained senses, knows the right quantity in eating, is with faith and hard-working him Mara cannot conquer like wind the wind a stone mountain.॥२॥
आरात्रिकं क्रिया-योग-अभ्यासः च (Arati and Kriya-yoga Practice)
२००६-०९-२९ शुक्रवासरः (2006-09-29 Friday)
अद्य प्रातःकाले सप्तवादने मन्दिरे क्रिया-योगस्य अभ्यासः आसीत्। अहं सप्तवादने मन्दिरं प्राप्तवान्। तदा मन्दिरस्य पुरोहितः आरात्रिकं करोति। अहं प्रथमवारे प्रातःआरात्रिकं काले मन्दिरं गतवान्। पुरोहितेन श्रद्धापूर्वकम् आरात्रिकं कृतम्। तत् दृष्ट्वा अहम् अत्यन्तम् आनन्दितः अभवम्।
तत् पर्यन्तं स्वामी प्रज्ञानन्दः स्वामी समरपणानन्दः च अस्मान् क्रिया-योगस्य अभ्यासम् अकारयताम्।
नवरात्र्याः महत्वः (Importance of Navratri)
२००६-०९-२८ गुरुवासरः (2006-09-28 Thursday)
अद्य स्वामी प्रज्ञानन्दः स्वामी समरपणानन्दः च आवाभ्यां सह याने केन्बरानगरम् आगच्छताम्। सायंकाले स्वामी प्रज्ञानन्दः नवरात्र्याः महत्वं चर्चितवान्। सः दुर्गाशप्ततितः किञ्चित् श्लोकाः उद्धृतवान्। सः श्लोकानां गूढ-अर्थं अस्मान् कथितवान्। तस्य प्रवचनस्य प्रभावः अतीवः गहनः अस्ति। नवरात्र्यां तस्य श्रवणं कोऽपि भाग्यशाली पुरुषः एव कर्तुं शक्यते।
संस्कृत-शब्दाः प्रकृत्याः विकासं वर्णयन्ति (Sanskrit words describe the progress of the civilisation)
२००६-०९-२७ बुधवासरः (2006-09-27 Wednesday)
अद्य स्वामी समरपणानन्दः प्रकृत्याः विकासस्य वर्णनं संस्कृत-शब्दैः अकरोत्। सक्रमेण विकासः ईदृशम् अभवत् -
जनः - जीवस्य जन्मः इति जनः
व्यक्तिः - स्वयं व्यक्तं कर्तुं शक्नोति इति व्यक्तिः (भाषायाः विकासः)
मानवः - मनसः उपयोगं कर्तुं शक्नोति इति मानवः
मनुष्यः - यः शस्त्रस्य उपयोगं करोति इति मनुष्यः
लोकः - संघेन वसितुम् शक्नोति इति लोकः
पुरुषः - स्वस्मिन् अन्ते (inside oneself) उषः प्रकाशः वा दृष्टुं शक्नोति इति पुरुषः
नरः - न रमते इति नरः अथवा सनातनः आत्मा (eternal spirit) इति नरः
मौनवासः - क्रिया-योगः (Silent Retreat - Kriya Yoga)
२००६-०९-२६ मङ्गलवासरः (2006-09-26 Tuesday)
मौनवास-शिविरे त्रयोधिक-षष्टिः जनाः सन्ति। स्वामी प्रज्ञानन्दः स्वामी समर्पणानन्दः च शिविरस्य निर्देशकौ स्तः। अद्य वयं त्रिवारं क्रीया-योगं कुर्मः। मम शरीरस्य प्रत्येकः संधानः (joint) दुखति।
मौनवासः (Silent Retreat)
२००६-०९-२५ सोमवासरः (2006-09-25 Monday)
अद्य प्रभृति गुरुवासरतः एकं मौनं शिविरम् अहं शुचिता च गच्छावः। शिविरस्य निर्देशनं स्वामी प्रज्ञानन्दः करिष्यति। सः क्रियायोगस्य शिक्षकः अस्ति। तस्य गुरुः बाबाहरिहरानन्दः, श्रीहरिहरानन्दस्य गुरुः श्रीयोगानन्दः परमहंसः, श्रीयोगानन्दस्य गुरुः स्वामी युक्तेश्वरः, श्रीयुक्तेश्वरस्य गुरुः श्रीलाहेरीमहाशयः, लाहेरीमहाशयस्य गुरुः श्रीबाबाजीमाहराजः।
धम्मपदः - २ (Dhaammapada - 2)
२००६-०९-२४ रविवासरः (2006-09-25 Sunday)
भगवतः बुद्धस्य एकस्य उपदेशस्य संग्रहः धम्मपदः इति अभिधीयते। तस्मिन् त्रिविंशति-अधिक-चतुर्शतं श्लोकाः सन्ति। बुद्धानुयायिनः ते श्लोकाः गाथाः इति कथ्यते। बहवः श्लोकाः युगले (in pairs) सन्ति। यथा
अक्रोशीत् माम् अवदीत् माम् अजैषीत् माम् अहार्षीत् मे।
ये च तत् उपनह्यन्ति तेषां वैरं न शाम्यति॥३॥
He spoke harshly to me, he hurt me, he defeated me, he stole from me--
who keep this in their minds, their enmity never dies.॥१॥
अक्रोशीत् माम् अवदीत् माम् अजैषीत् माम् अहार्षीत् मे।
ये च तत् नोपनह्यन्ति तेषां वैरं न शाम्यति॥३॥
He spoke harshly to me, he hurt me, he defeated me, he stole from me--
who do not keep this in their minds, their enmity gets pacified.॥१॥
नह् - to tie, fasten
कस्याः बाल्यस्वभावः अधिकतरः (Whose childish nature is more?)
२००६-०९-२३ शनिवासरः (2006-09-23 Saturday)
अद्य वयं किञ्चिद् शाक-पादपाः (vegetable plants) अक्रीणीम। आवयोः कन्या तस्याः माता च पादपाः अवपताम् (planted)। तदन्तरं ज्वलितयाः माता तां पादपान् जलं दातुम् अकथयत्। किञ्चित् कालः परं ज्वलिता क्रन्दन् मया समीपम् आगच्छत्। मया पृष्टं किमभवत् इति। सा अवदत् - यदा अहं जलं ददामि तदा माता अवदत् त्वं सम्यग् जलं न ददाति, जल-प्रणालिकां (water pipe) मां यच्छ इति। यदि सा मां कथं सम्यक् करणीयम् इति अकथयत् तर्हि कापि बाधा नाभवत् किन्तु सा प्रणालिकां मत् अनयत् (took the pipe from me)। अहं ज्वलिताम् अकथयत् - तव माता युष्मात् वयसि (in age) अधिकास्ति किन्तु बाल्यस्वभावे तव समा अस्ति। इदं श्रुत्वा सा हसन् अधावत्।
महानगरवासिनी-बालिका (Big City Girl)
२००६-०९-२२ शुक्रवासरः (2006-09-22 Friday)
अस्मिन् सप्ताहे मम सिडनीवासिनः मित्रस्य कन्या अस्माभि सह अतिष्ठत्। सा विश्वविद्यालये पत्रकारीता-विषयः पठति। अस्मिन् सप्ताहे सा एकस्मिन् विभागे अनुभवाय कार्यम् अकरोत्। तर्हि सा केन्बरानगरम् अतिष्ठत् (stayed)। यावत् सा गत रविवासरे अत्र प्राप्तवान् तावत् आवयोः कनीयसी कन्या तां दिव्यलोकात् कापि किंनरी आगतवान् इति अपश्यत्। अहं अजानं तस्याः प्रभावः केवलं ज्वलितायाम् उपरि एव असीत्। किन्तु अद्य तस्या प्रत्यागमनं परं मम भार्या माम् अकथयत् - अपि जानासि, सा अकथयत् दिव्यान्शुना सह इदृशं व्यवहारं कर्तव्यं, शुचितया सह तादृशं इत्याद्यः। अहं अचिन्तयम् - इयं महानगरे वासिनी किंनरी न तु केवलं बालकान् मोहति सा तु प्रौढान् अपि मोहति।
शून्यः (Zero)
२००६-०९-२१ गुरुवासरः (2006-09-21 Thursday)
किञ्चित् कला (minutes) पूर्वम् आवयोः कन्या ज्वलिता मां वियोजनस्य (subtraction) एकः नवीनः नियमः अदर्शयत्। सः नियमः सम्यक् नासीत्। अहं ताम् अकथयत् - हे ज्वलिते, तव पूर्वजाः विश्वं शून्यम् अददुः। संकलनस्य वियोजनस्य च सर्वाः नियमाः शूनस्य उपयोगम् एव कुर्वन्ति। यतो हि तव पूर्वजाः सर्वान् नियमान् आविषकुर्वन् तर्हि त्वं कथं तान् नियमान् सम्यग् न जानासि। इदं श्रुत्वा सा मां परिहासं कृत्वा अधावत्।
मकरव्याधस्य स्मृतिसभा (Memorial Service for the Crocodile Hunter)
२००६-०९-२० बुधवासरः (2006-09-20 Wednesday)
अद्य स्टीव-अरवाईनस्य मकरव्याधस्य स्मृतिसभा आसीत्। तस्य जन्तुगृहे (zoo) सा सभा अभवत्। तस्य निधनं द्विसप्ताहपूर्वे अभवत्। तत् परं तस्य अन्येष्टि-क्रिया परिजनैः गुप्तरूपेण कृतम्। कुत्र तस्य शवं न्यखनत् (buried) लोकाः न जानन्ति। अद्यस्य स्मृतिसभायै पञ्चसहस्रः प्रवेश-पत्रकानि विक्रीतानि (tickets were sold)। विक्रय-धनं ते कथयन्ति मकरव्याधस्य जन्तुगृहाय अस्ति। स्मृतिसभायां प्रधानमंत्री चलचित्र-अभिनेतारः इत्यादयः आसीत्। दूरदर्शनेन तस्य प्रसारणम् अभवत्। मकरव्याधस्य कला न केवलं यावत् सः अजीवत् तावत् धनम् आनयत् किन्तु मृत्युपर्यन्तमपि धनम् आनयति।
नृपस्य कथनम् (An Emperor's Quote)
२००६-०९-१९ मङ्गलवासरः (2006-09-19 Tuesday)
गतसप्ताहे पोपवर्यस्य वार्तायां एका पत्रिका लिखति -
In the speech at Regensburg University, the pope opened a much broader theological exploration by quoting these words of a 14th century Byzantine Emperor: "Show me just what Muhammad brought that was new, and there you will find things only evil and inhuman, such as his command to spread by the sword the faith he preached." (Time Magazine)
अस्य अर्थः पोपमहोदयस्य समर्थकाः कथयति -
He sought instead to delineate what he sees as a fundamental difference between Christianity's view that God is intrinsically linked to reason (the Greek concept of Logos) and Islam's view that "God is absolutely transcendent." (Time Magazine)
इदं पठित्वा अहं मन्ये मुस्लिममतः गीतायाः पुरुषोतमम् आराधयति।
वेटिकने इस्लामस्य विशेषज्ञाः (Islam experts in Vatican)
२००६-०९-१८ सोमवासरः (2006-09-18 Monday)
पोपमोहदयेन गत सप्ताहे यत् कथितं तस्य एकं व्याख्यानं (explaination) अस्ति -
"At a time when the Vatican has just replaced its second-in-command and its foreign minister, many experts also said that the Vatican does not have enough experts on Islam to gauge reaction to any papal statements."
New York Times, September 17, 2006.
अहं बोधितुं न शक्नोमि वेटिकनराज्यः कथं चलति। अथवा विशेषज्ञाः किदृशाः सन्ति। अस्मासु कः नस्ति सः मुस्लिमबन्धूनां प्रतिक्रीयां पूर्वकथयितुं (to predict) न शक्नोति? अपि तस्य पूर्वकथनाय विशेषज्ञान् आवश्यकता भवति? अहो वेटिकनः, अहो विशेषज्ञाः, अहो समाचारपत्राणि।
विशेषाः लकार-पुरुष-वचनाः (Special tense and number)
२००६-०९-१७ रविवासरः (2006-09-17 Sunday)
अदादि-जुहोत्यादि-स्वादी-रुधाधि-तनादि-क्र्यादि (द्वितीय-तृतीय-पञ्चम-सप्तम-अष्टम-नवम) गणानां धातुनां तिङ्प्रत्ययरूपाणि कर्तुं अधोलिखिताः लकार-वचनाः स्मर्तव्यम्।
(१) परस्मैपदे लट्-लङ्-लकारयोः त्रयः पुरुषाः एकवचनः।
(२) परस्मैपदे लोट्लकारस्य प्रथमपुरुष-एकवचनः।
(३) परस्मैपदे आत्मनेपदे च लोट्लकारस्य उत्तमपुरुषः त्रयः वचनाः।
यथा स्वदिगणे -
परस्मैपदे लट्-लङ्-लकारयोः त्रिष्वपि पुरुषेषु एकवचने विकरणस्य गुणः भवति।
परस्मैपदे लोट्लकारस्य प्रथमपुरुष-एकवचने विकरणस्य गुणः भवति।
परस्मैपदे आत्मनेपदे च लोट्लकारस्य उत्तमपुरुषे त्रिष्वपि वचनेषु तिङ्प्रत्ययस्य "आट्" इति आगमः भवति।
पृष्ठः २०६, सरलसंस्कृतसरणिः - द्वितियोऽन्तिमश्च भागः, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः, पुदुच्चेरी।
स्वादिगणाः ३५ धातवः (35 svaadigaNa (group 5) roots)
२००६-०९-१६ शनिवासरः (2006-09-16 Saturday)
स्वादिगणे ३५ धातवः सन्ति। एषः गणः पञ्चमः गणः अपि कथ्यते। पाणिनिव्याकरणे दश गणाः सन्ति। दशगणेषु सकलाः धातवः १९७० सन्ति। स्वादिगणस्य प्रथमः धातुः सु धातुः अस्ति। अस्मिन् स्वादिगणे श्नु (नु) विकरणः भवति। धातवः कोऽपि स्वरं गुणः न भवति। यथा - शक् (to be able)
शक्नोति शक्नुतः शक्नुवन्ति, शक्नोषि शक्नुथः शक्नुथ, शक्नोमि शकुवः शक्नुमः।
धम्मपदः - १ (Dhaammapada - 1)
२००६-०९-१५ शुक्रवासरः (2006-09-15 Friday)
भगवतः बुद्धस्य एकस्य उपदेशस्य संग्रहः धम्मपदः इति अभिधीयते। तस्मिन् त्रिविंशति-अधिक-चतुर्शतं श्लोकाः सन्ति। बुद्धानुयायिनः ते श्लोकाः गाथाः इति कथ्यते। बहवः श्लोकाः युगले (in pairs) सन्ति। यथा
मनः पूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमया।
मनसा चेत्प्रदुष्टेन भाषते वा करोति वा।
तत् एनं दुःखमन्वेति चक्रमिव वहतः पदम्॥१॥
In all efforts, mind is the leader, mind is the highest, and all efforts are permeated by mind. Whatever is spoken or done with a faulty mind brings sorrow as surely as the wheel find the foot of the ox (pulling the cart).
मनः पूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमया।
मनसा चेत्प्रसन्नेन भाषते वा करोति वा।
तत् एनं सुखमन्वेति छायेवानपायिनी॥१॥
In all efforts, mind is the leader, mind is the highest, and all efforts are permeated by mind. Whoever speaks or does anything with a happy mind, hapiness follows him as surely as his ever following shadow.
अनपायिन् - invariable, constant, not going or passing away
दिवादिगणाः १४० धातवः (140 divaadigaNa (group 4) roots)
२००६-०९-१४ गुरुवासरः (2006-09-14 Thursday)
दिवादिगणे १४० धातवः सन्ति। एषः गणः चतुर्थाः गणः अपि कथ्यते। पाणिनिव्याकरणे दश गणाः सन्ति। दशगणेषु सकलाः धातवः १९७० सन्ति। दिवादिगणस्य प्रथमः धातुः दिव् धातुः अस्ति। अस्मिन् दिवादिगणे श्यन् (य) विकरणः भवति। धातवः कोऽपि स्वरं गुणः न भवति। यथा - कुप्
कुप्यति कुप्यतः कुप्यन्ति, कुप्यसि कुप्यथः कुप्यथ, कुप्यामि कुप्यावः कुप्यामः।
विंशतिसहस्र-वर्षः पूर्वं सागरस्य तलम् (Sea levels 20,000 years ago.)
२००६-०९-१३ बुधवासरः (2006-09-13 Wednesday)
एल-गोरः महोदयः अद्यत्वे औस्ट्रेलियादेशम् अभ्यागच्छति (is visiting)। मानवाः पर्यावरणस्य (of the environment) कीदृशं विनाशं कुर्वन्ति तत् निर्देषुं (to show) सः अत्र अभ्यागच्छत्। अहं मन्ये तस्य संदेशः अस्मभ्यं लाभकारी अस्ति। किन्तु किञ्चित् लोकाः तस्य विरोधं कुर्वन्ति। ह्यः एकः विज्ञानिकः लिखितवान् प्रकृत्याः चक्रं बृहत् अस्ति। मानवाः यदपि कुर्वन्ति तत् प्रकृत्याः तुलनायां किमपि नास्ति। सः अनेकानि उदाहरणानि दत्तवान्। एकम् उदाहरणम् अस्ति - विंशतिसहस्र-वर्षः पूर्वं सागरस्य तलं त्रिंशतधिकं शतं मानम् नीचैः (130 metres lower) आसीत्। तदा हिमकालः (ice age) च आसीत्। तस्मात् तस्मिन् काले भारतात् औस्ट्रेलियादेशं चलित्वा गन्तुं शक्यते। प्रकृत्याः चक्रं खलु बृहत् अस्ति।
9/11 परं पुनः समाचारं पश्यामि (Will watch the news again after 9/11.)
२००६-०९-१२ मङ्गलवासरः (2006-09-12 Tuesday)
कथं लोकाः विश्व-व्यापार-केन्द्रस्य आक्रमणस्य संवत्सरस्य समाचाराः प्रत्येकस्मिन् संवत्सरे दृष्टुं शक्नुवन्ति। नेतारः प्रत्येकस्मिन् वर्षे एकमेव वार्तां पुनः पुनः अनुवदन्ति। प्रत्येकवर्षे ते प्रतिज्ञां कुर्वन्ति - लादेन-सूनुं उस्मानं धरिष्यामः इति। अहं चिन्तयामि - अपि अस्ति कोऽपि जनः यः तेषां वचने विश्वासं करोति। किन्तु ते तत् न चिन्तयन्ति ते अर्थहीनं भाषणं निरन्तरं ददति। अहं प्रतिवर्षे भावमाणं (happening) इति अभिनयात् क्लान्तः अस्मि तस्मात् अस्मिन् संवत्सरे समाचारं न पश्यामि। श्वः पुनः समाचारं द्रक्ष्यामि।
अपि मानवाः वानरेभ्यः (Humans from Monkey?)
२००६-०९-११ सोमवासरः (2006-09-11 Monday)
आवयोः पुत्रः दिव्यांशुः चिकित्सा-विज्ञान-स्नातक-पाठ्यक्रमः (Bachelor of Medical Science degree) पठति। सः एकस्मिन् वस्त्रक्र्य-व्यवसाये (clothes selling business) कार्यं कर्तुम् अगच्छत्। तस्य व्यवसायस्य स्वामी दिव्यांशुम् अपृच्छत् - त्वं किम् पठसि। दिव्यांशुः तं चिकित्सा-विज्ञान-स्नातक-पाठ्यक्रमे पठामि इति उत्तरम् अददात्। सः स्वामी दिव्यांशुं क्षोभणाय (to tease) अकथयत् - अपि मानवाः वानरेभ्यः आगच्छन् इति त्वां विश्वविद्यालये पाठयति। दिव्यांशुः तदा प्रत्यावदत् - ते पाठयन्ति रूसवासिनः (Russians) वानरेभ्यः आगच्छन् न तु भारतीयाः। सः स्वामी रूसदेशात् अत्र आगच्छत्।
द्यूतं समाजसेवा करोति (Gambling helps community)
२००६-०९-१० रविवासरः (2006-09-10 Sunday)
केन्बरानगरे बहवः द्यूतयन्त्रणि (poker machines) सन्ति। गत वर्षे तेषु $190,000,000 (one hunderd and ninety million) केन्बरावासिनः स्थापितवन्तः। यदापि सज्जनाः द्यूतयन्त्रान् विरोधं कुर्वन्ति तदा-तदा क्रीडागणाः (sporting clubs) कथयन्ति द्यूतस्य धनं नगरे बालकानां क्रीडाकार्यं समर्थयते (supports) इति। किञ्चित् दिवसाः पूर्वम् अहं वितन्तुके (on the radio) श्रुतवान् द्यूतस्य केवलं द्वि-प्रतिशतं धनं क्रीडाकार्ये व्ययति। कृपया चिन्तयतु केवलं द्वि-प्रतिशतम्। यादृशं ते कोलाहलं कुर्वन्ति कोऽपि मन्स्यते द्यूतस्य शत-प्रतिशतं धनं समाजकार्ये एव ते व्ययन्ति। तस्मिन् उपरि सर्वकारः तान् क्रीडगणान् समर्थयते।
ज्वलितायाः परिहासः - ३ (Jwalita's joke - 3)
२००६-०९-०९ शनिवासरः (2006-09-09 Saturday)
कथम् अण्डं परिहासः न कथयेत्? (Why should you not tell an egg a joke?)
तत् खण्डयति। (It cracks up.)
ज्वलितायाः हास्यः - २ (Jwalita's joke - 2)
२००६-०९-०८ शुक्रवासरः (2006-09-08 Friday)
रोगी निम्बूकः कथं निरोगी क्रियते? (What do you do to cure a sick lemon?)
तत् निम्बूकं निम्बू-मधु-पेयम् दीयते। (Give it a lemonade.)
उपरि लिखिते द्वे वाक्ये कर्मवाच्ये स्तः। (The above two sentences are in passive voice.)
रोगिन् इति sick, तस्य प्रथमाविभक्ति-एकवचन-रूपम् रोगी अस्ति।
निम्बूकः पुंलिङ्गः अस्ति।
मकरव्याधस्य स्टीव-अरवाईनस्य निधनम् (Passing away of the Corcodile Hunter Steve Irwin)
२००६-०९-०७ गुरुवासरः (2006-09-07 Thursday)
गत सोमवारे औस्ट्रेलियादेशस्य प्रख्यातः विदूषकः मृग-संरक्षकः (animal conservationist) स्टीव-अरवाईनः दिवं गतः। तम् एकं दंशक-मत्स्यः (string-ray fish) स्वपुच्छेन हतवान्। सः स्वकन्यायै (for his daughter) वृतचित्रं (documentary) निर्माति स्म।
सः औस्ट्रेलियादेशात् संयुक्तराज्ये अधिकः प्रख्यातः आसीत्। तस्य प्रधानकार्यः दूरदर्शने आसीत् किन्तु सः किञ्चित् चलचित्रमपि निर्मितवान्। तस्य भार्या अमरीकी, तयोः द्वौ बालकौ च एकः पुत्रः एका कन्या।
स्टीवस्य पिता बोबः राज्यसम्मानात् अन्तिमक्रिया निराकृतवान्। अहं मन्ये बोबः अतीव बुद्धीमानः अस्ति। सः जानाति राजनितीज्ञाः कीदृशाः सन्ति। स्टीवस्य मृत्योः आश्रित्य ते स्वस्यां प्रचारं करिष्यन्ति। तद् दृष्ट्वा लोकाः स्टीवस्य उपरि शंकास्प्रदाः भविष्यन्ति। ते चिन्तयिष्यन्ति अपि स्टीवः विदूषकः अथवा धन-मान-लोभी आसीत्।
बुद्धीमानाः राज्यप्रभावात् परं तिष्ठन्ति।
ज्वलितायाः हास्यः - १ (Jwalita's joke - 1)
२००६-०९-०६ बुधवासरः (2006-09-06 Wednesday)
रागालुः रक्ताङ्गः वा कथं सलज्जते? (Why does the tomato blush?)
यतो हि सः शाकलादस्य सिद्धिकरणम् अपश्यत्। (Because it saw the salad dressing.)
अदादिगणस्य किञ्चित् धातवः - १ (Some adaadigana roots - 1)
२००६-०९-०५ मङ्गलवासरः (2006-09-05 Tuesday)
अस् (to be) परस्मैपदी धातुः अस्ति।
सः बालकः अस्ति। सा बालिका अस्ति। ते जनाः आनन्दिताः सन्ति। अहं अस्मि। वयं स्मः। तथास्तु। वर्षा भविष्यति। सः मम गृहे आसीत्। अहमपि तत्र आसन्। त्वं कुत्र आसीः। सुखी भूयात्। कुशलं स्यात्।
आस् (to sit) आत्मनेपदी धातुः अस्ति।
सः आसने आस्ते। अहं आसन्दिकायाम् आसे। त्वं आस्स्व। ते पर्यङ्के आसते।
स्वप् (to sleep) धातुः परस्मैपदी अस्ति।
सा दश होरापर्यन्तं स्वपिति। अहं कदाचित् मध्याह्ने स्वपिमि। अपि त्वं रात्रौ कदा स्वपिषि। सः सायंकाले स्वप्स्यति। अहं रात्रौ स्वप्स्यामि। सा ह्यः न अस्वपीत्। अहं ह्यः सुखेन अस्वपम्।
भ्वादिगणस्य किञ्चित् धातवः - १ (Some bhvaadigana roots - 1)
२००६-०९-०४ सोमवासरः (2006-09-04 Monday)
धृ (to hold) धातुः उभयपदी अस्ति।
सः तस्य पुत्रस्य हस्तं धरति। अहं पुस्तकं धरामि। सः इदं कन्दुकं धरिष्यति। त्वं इदं पत्रम् अधरः। सः तस्य पितोः चरणौ धरेत्। सः स्थालीकाम् धरते। अहं फलं धरे। त्वं पात्रम् अधरथाः।
भृ (to fill, to nourish) धातुः उभयपदी अस्ति।
सः जलं भरति। त्वं बालकान् भर। सः विद्यार्थिनः भरतु। अहं पानिले रसं भरामि। सः नित्यं जलं भरते।
श्रु (to listen) धातुः परस्मैपदी अस्ति।
सः गायनं शृणोति। अहं भवतः संवादं शृणोमि। त्वं मम वार्तां श्रोष्यसि। रामः कृष्णस्य गीतम् अशृणोत्।
जुहोत्यादिगणाः २४ धातवः (24 juhotyaadigana roots)
२००६-०९-०३ रविवासरः (2006-09-03 Sunday)
जुहोत्यादिगणे २४ धातवः सन्ति। एषः गणः तृतीयः गणः अपि कथ्यते। पाणिनिव्याकरणे दश गणाः सन्ति। दशगणेषु सकलाः धातवः १९७० सन्ति। जुहोत्यादिगणस्य प्रथमः धातुः हु धातुः अस्ति। अस्मिन् गणे भ्वादिगणसदृशः शप् विकरणः न भवति। लट्-लकारे प्रथमपुरुष-बहुवचने अन्ति-प्रत्ययस्य स्थाने अति-प्रत्यय भवति। लङ्-लकारे प्रथमपुरुष-बहुवचने अन्-स्थाने उस् भवति। उस्-प्रत्ययस्य पूर्वे धातवः आ लोपः भवति। अन्तिमस्य इ, उ, ऋ, स्वरस्य गुणः भवति। यथा
हु -> लट् - जुहोति, जुहोतः, जुह्वति। लङ् - अजुहोत्, अजुहुताम्, अजुहयुः।
अदादिगणा ७२ धातवः (72 adaadigana roots)
२००६-०९-०२ शनिवासरः २००६-०९-०२ षतुर्दय्
अदादिगणे ७२ धातवः सन्ति। एषः गणः द्वितीयः गणः अपि कथ्यते। पाणिनिव्याकरणे दश गणाः सन्ति। दशगणेषु सकलाः धातवः १९७० सन्ति। अदादिगणस्य प्रथमः धातुः अद् धातुः अस्ति। अस्मिन् अदादिगणे भ्वादिग&