[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
केन्सनगरम् आगच्छम् (Came to Cairns)
२००७-०७-०८ रविवासरः (2007-07-08 Sunday)
अद्य अहं केन्सनगरम् एकस्यै परिषदे आगच्छम्। केन्सनगरम् ओस्ट्रेलियादेशस्य प्राचि-उदीचि दिशायाम् अस्ति। केन्बरानगरतः प्रायशः त्रिसहस्रक्रोशः (3000 kms) अस्ति। इदं नगरं भ्रमणस्थलमपि अस्ति।
अस्माकं मित्रं श्यामसुन्दरः मां मिलनाय विमानस्थले आगमिष्यति इति प्रबन्धः आसीत् किन्तु मम तत्र प्राप्तस्य एका होरा परम् अपि यदा सः न आगच्छं तदा अहं भाटावासम् (hotel) अगच्छम्। अहो भाग्यम् - भाटयानस्य (taxi) चालकः श्रीअरविन्दस्य अनुयायी आसीत्। सः रूसदेशात् अत्र आगच्छत्। तेन रूसीभाषायां श्रीअरविन्दस्य पुस्तकानि पठितानि। भाटावासे प्राप्ते मया ज्ञातं श्यामसुन्दरः यस्मिन् मार्गे आगच्छति तस्मिन् मार्गे एका दुर्घटना अभवत् तस्मात् सः नियतकाले न आगच्छम्। तेन भाटावासे दूरभाष-सन्देशः दत्तः।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]