[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
कर्मणि-प्रयोगे दिनचर्या-लेखनम् - ३ (Daily activity sentences - Passive construct - 3)
२००७-०७-०३ मङ्गलवासरः (2007-07-03 Tuesday)
डॉ-सदानन्दवर्यः जर्मनदेशतः इमानि वाक्यानि अप्रेषयत।
कर्मणि-प्रयोगे कर्ता तृतीया-विभक्त्याम् अस्ति कर्म प्रथमा-विभक्त्याम् अस्ति च।
कर्मणि-प्रयोगः - मया अपराह्णे गृहमागम्यते। कर्तरि प्रयोगः - अहं अपराह्णे गृहमागच्छामि।
किञ्चिद्भोजनं क्रियते। किञ्चिद्भोजनं करोमि।
कदाचित्सायंकाले पत्न्या पुत्र्या च सह उद्यानं गम्यते। कदाचित्सायंकाले पत्न्या पुत्र्या च सह उद्यानं गच्छामि।
तत्रोद्याने पुत्र्या सह क्रीड्यते। कदाचित् सायं किञ्चित्क्रयणार्थं विपणिः गम्यते। अनन्तरं गृहमागत्य किञ्चिच्चायं पीत्वा पुनः किञ्चित्कार्यं क्रियते।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]