[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


आशास् धातुः (aashaas - To desire, wish, ask, pray for)

२००७-०६-२८ गुरुवासरः (2007-06-28 Thursday)

आशास् - (wish, desire, hope) - आत्मनेपदी भ्वादिगणीयः धातुः अस्ति।

विदुषः संसर्गः अतिलाभकरः अस्ति। डॉसदानन्देन अद्य मां एकः संदेशः प्रेषितम्। संदेशे तेन आशासे इति शब्दः प्रयुक्तः। अहं चिरकालात् हिन्दीभाषायाम् - आशा करता हूँ - इति कथं संस्कृतभाषायाम् कथ्यते इति चिन्तितवान्। मया आशा इति धातुः शब्दकोशे दृष्टः किन्तु सः धातुः एव नास्ति। अद्य अजानं तस्मिन् अर्थे आशास् इति धातुः भवति।

अहं आशासे तव सर्वं कुशलं भवति। सः आशासते तस्य माता आगच्छतु इति। ते आशासन्ते भोजनम्। ते आशासन्ते सुखम्। माता आशासत बालकानां सुखम्।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]