[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
कर्मणि-प्रयोगे दिनचर्या-लेखनम् - २ (Daily activity sentences - Passive construct - 2)
२००७-०६-२७ बुधवासरः (2007-06-27 Wednesday)
डॉ-सदानन्दवर्यः जर्मनदेशतः इमानि वाक्यानि अप्रेषयत।
कर्मणि-प्रयोगे कर्ता तृतीया-विभक्त्याम् अस्ति कर्म प्रथमा-विभक्त्याम् अस्ति च।
प्रार्थना क्रियते। ततः परमल्पाहारः क्रियते। (अवधेहि - आहारः - पुंलिङ्गः शब्दः अस्ति।)
अनन्तरं सङ्गणकेन किञ्चित्कार्यं क्रियते।
मया ततो विश्वविद्यालयो गम्यते।
तत्र कक्षाद्वयं अध्याप्यते। छात्रैः सह किञ्चित् सम्भाषणं क्रियते सम्भाष्यते वा। (अवधेहि - सम्भाषणं - नपुंसकलिङ्गः शब्दः अस्ति।)
ततः विद्युत्पत्राणि पठ्यन्ते लिख्यन्ते च। (अवधेहि - पठ्यन्ते बहुवचने अस्ति, सः पत्राणि अनुसरति।)
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]