[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
यदा-कदा विकल्पः (Alternative to When-then construct)
२००७-०६-२४ रविवासरः (2007-06-24 Sunday)
श्रीनिवासवर्यः लिखति - यदा-तदा रचनायाम् अन्यः विकल्पः अपि अस्ति। यथा -
यदा अहं गच्छामि तदा सा रोदिति। मयि गच्छति सा रोदिति। गच्छति - सप्तमि-एकवचने।
यदा कन्याः मोदन्ते तदा मातरो मोदन्ते। कन्यासु मोदमानासु मातरो मोदन्ते।
यदा मुनिः गृहं प्रविष्टः तदैव सङ्कटानि अनश्यन्। गृहं प्रविष्टे मुनौ सङ्कटानि अनश्यन्।
यदा रामेण रावणो हतः तदा विभीषणो लङ्काधिपतिरभवत्। रामेण रावणे हते विभीषणो लङ्काधिपतिरभवत्।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]