[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


कदा शिक्षते (When does one learn?)

२००७-०६-१३ बुधवासरः (2007-06-13 Wednesday)

एकः युवा (one young person) शिक्षकं उपगम्य शिक्षणाय निवेदितवान्। शिक्षकः तम् अकथयत् प्रथमं तु आवां नातिदूरे वर्त्मानं सरं (to the near lake) गमिष्यावः इति। तत्र प्राप्य शिक्षकः युवानं गृहीत्वा तं सरे अमज्जयत् (drowned)। तस्य मस्तके अनुदत् (pressed) च। युवा श्वसितुं न अशक्नोत् (The young person was unable to breath)। किन्तु शिक्षकं सम्मानाय सः तं अपाकर्तुं (move or remove) न अशक्नोत्। अन्ते युवा अमन्यत् यदि अहं जलात् बहिः नागमिष्यामि तर्हि मृत्युमेव प्राप्स्यामि इति। तदा सः शिक्षकं उत्थाय अक्षिपत् (lifted and threw)

तदन्तरं शिक्षकः अकथयत् - पश्य श्वसनाय कथं त्वं माम् उत्थाय अक्षिपः। यदा तव शिक्षणस्य इच्छा तादृशी प्रबला भविष्यति यादृशी तव श्वसनाय इच्छा आसीत् तदा तव शिक्षणं संभवं भविष्यति।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]