[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


सुलोपो न कदाचन (Visarag is not dropped)

२००७-०६-०१ शुक्रवासरः (2007-06-01 Friday)

अवी-तन्त्री-तरी-लक्ष्मी-ह्री-धी-श्रीणामुणादिषु।

सप्तानामपि शब्दानां सुलोपो न कदाचन॥

सामान्यतः ईकारान्त-स्त्रीलिङ्ग-शब्दानां प्रथम-विभक्त्यां एकवचने विसर्गः न भवति - यथा नदी पृथ्वी अरुन्धती इत्यादयः। किन्तु अस्मिन् श्लोके दत्ताः शब्दाः तस्मिन् स्थाने अवीः (marriageable woman) तन्त्रीः (venna) तरीः (boat) लक्ष्मीः (wealth) ह्रीः (modesty) धीः (intelligence) श्रीः  (splendour) इति भवन्ति। एकः अधिकः शब्दः अस्ति यः स्तरीः (smoke or vapour) इति भवति।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]