[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
एकवचनः अथवा बहुवचनः (Singular or Plural)
२००७-०५-२९ मण्गलवासरः (2007-05-29 Tuesday)
गीतायाम् चतुर्थे अध्याये अस्ति -
अपरे नियताहाराः प्रणान्प्रणेषु जुह्वति।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥४।३०॥
यदा अहं जुह्वति इति अपठं तदा अहं अचिन्तयं कथं नियताहाराः इति बहुवचनशब्देन सह जुह्वति इति एकवचने अस्ति। तदा अहं हु-धातोः लट्लकारस्य रूपाणि अपश्यम्। ते सन्ति -
जुहोति जुहुतः जुह्वति
जुहोषि जुहुथः जुहुथ
जुहोमि जुहुवः जुहुमः
तर्हि नियताहाराः जुह्वति इति सम्यकस्ति। सः जुहोति, तौ जुहुतः, ते जुह्वति।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]