[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
श्रीदुर्गासप्तशती (Seven Hundred Durga Slokas)
२००७-०५-२६ शनिवासरः (2007-05-26 Saturday)
अद्य भ्राताप्रकाशः मन्दिरे श्रीदुर्गासप्तशतीपाठं योजितवान्। वयं एकादशः जनाः पाठम् अकुर्वन्। पण्डितः श्रीशैलेशः मुख्यः पण्डितः आसीत्।
श्रीदुर्गासप्तशती-प्रथमे अध्याये एकः श्लोकः अस्ति -
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम।
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा॥१।६५॥
अत्र श्रूयतां मम इति श्रूयताम् मत् इति अर्थे (from me) अस्ति। अहं बहुचिन्तितवान् मम इति अत्र कथं अस्ति किन्तु अधुना मन्ये मत् वा मम द्वयोः मध्ये कोऽपि एकः भवितुं शक्यते। यदि अहं मृषा मन्ये तर्हि कोऽपि संस्कृत-पण्डितः मां सम्यग् किम् भवति इति वदतु।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]