[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


सिडनीनगरात् सहकर्मिणः (Colleagues from Sydney)

२००७-०५-१८ शुक्रवासरः (2007-05-18 Friday)

अद्य सिडनीनगरात् मम सहकर्मिणः केन्बरानगरम् आगच्छन्। ते अस्माभिः क्रीतानि लौक्य-स्थान-हृषीकयन्त्रानि (Global Position Sensor - GPS) कथं कार्यं कुर्वन्ति इति ज्ञातुम् आगच्छन्। मम एकः छात्रः जेरेमीवर्यः तेषां निष्णातः अस्ति। वयं स्वचालिते कर्षित्रे (automatic tractor) उपरि शोधं कुर्मः तस्मात् स्थान-हृषीकयन्त्रम् अनिवार्यः अस्ति। जेरेमिवर्येण सहाय्यं परं ते सम्यग् रूपेण यन्त्रं चालयितुम् शक्तवन्तः।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]