[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
दिव्यांशोः कार्यपद्धतिः (Divyanshu's Working Style)
२००७-०४-१० मङ्गलवासरः (2007-04-10 Tuesday)
दिव्यांशोः (आवयोः ज्येष्ठः पुत्रः दिव्यांशुः) विश्वविद्यालये अवकाशः अस्ति। अद्य प्रातःकाले यदा अहं मम कार्यालये गच्छामि स्म तदा दिव्यांशुम् अकथयम् - अद्य गृहस्य पृष्ठात् तृणादिकं क्षिप (clear away the weeds) इति। सः किमपि न प्रत्यावदत्। किञ्चित् काल परम् अहं पुनः अकथयम् - दिव्यांशो कृपया मया कथितं कार्यं त्वया कर्तव्यम्। सः मह्यम् अकुप्यत् - भवान् पुनः पुनः कथं वदति, एकवारं तु पर्याप्तम् इति। सायंकाले यदा अहं गृहं प्रत्यागम्य दिव्यांशुम् अपृच्छम् - अपि त्वं तृणादिकम् अक्षिपः। सः अकथयत् - अहं व्यस्मरम् इति। किं वदेयम्।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]