[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


छात्रः प्रगतिं करोति (Student Makes Progress)  

२००७-०४-०५ गुरुवासरः (2007-04-05 Thursday)

मम एकः विद्यावाचस्पति-छात्रः कतिपयं दिवसं पूर्वम् एकं प्रतिपादनम् (claim) अकरोत्। सः तस्य प्रतिपादनस्य प्रमाणमपि (proof also) अददात्। अहं तस्य प्रमाणं न अबोधम्। अद्य अहं तं छात्रं तत् प्रमाणं मां मौखिकेन रूपेण स्पष्टिकरोतु इति अकथयम्। वयं (छात्रः अहं मम सहकर्मी च) सार्ध-एक-होरा पर्यन्तं चर्चाम् अकुर्मः अन्ते सः छात्रः तस्य प्रतिपादनस्य प्रमाणं सम्यग् दातुं अशक्नोत्। अहं मन्ये तत् प्रतिपादनं तस्य शोधस्य प्रथमं प्रतिपादनमस्ति। तस्य प्रगतिं ज्ञात्वा अहं प्रसन्नः अस्मि।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]