[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


श्रीवल्लुवरस्य विडम्बना (Thiruvalluvar's Dilemma)  

२००७-०२-०५ सोमवासरः (2007-02-05 Monday)

अद्य अहं गुर्जर्प्रदेशस्य एकस्य सन्न्यासिनः प्रवचनं श्रुतवान्। प्रवचने सः श्रीवल्लुवरस्य विडम्बनायाः वर्णनम् अकरोत्।

एकवारं श्रीवल्लुवरः क्षेत्रे (in a field) स्वपिति। सः मृत्तिकायाः (of the mud) उपधानं (pillow) कृत्वा स्वपिति। किञ्चित् लोकाः ततः गच्छन्ति। श्रीवल्लुवरम् इदृशम् स्वपन् दृष्ट्वा एकः जनः अवदत् - पश्यन्तु तं सन्न्यासिनं, सः संसारे सर्वं अत्यजत् किन्तु उपधानं विना न स्वपितुं शक्नोति। इदं श्रुत्वा श्रीवल्लुवरः उपधानं त्यक्त्वा स्वपिति। किञ्चित् कालः परं ते लोकाः प्रत्यागच्छन्ति श्रीवल्लुवरं उपधानं विना पश्यन्ति च। तत् दृष्ट्वा ते कथयन्ति - कीदृशः सन्न्यासी अस्ति किञ्चित् विवेचनः (criticism) अपि श्रोतुं न शक्नोति।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]