[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
सम्मेलनस्य प्रथमदिवसः (First Day of the Conference)
२००६-१२-१३ बुधवासरः (2006-12-13 Wednesday)
अद्य सम्मेलनस्य प्रथमदिवसः आसीत्। प्रातः अष्टवादने श्रीविद्यासागरस्य व्याख्यानम् आसीत्। तेन सह अहं पूर्वं शोधकार्यम् अकरवम्। सः अस्माकं क्षेत्रे अग्रणी अस्ति तस्मात् तस्य व्याख्यानं श्रोतव्यम्। श्रीमोहनवर्यस्य गृहं नगरस्य उत्तरभागे अस्ति किन्तु सम्मेलनं नगरस्य दक्षिणभागे आसीत्। अहं नगरस्य वाहनव्यवहारम् अपि अजानम् तस्मात् मयि किञ्चित् चिन्ता आसीत् - कथम् अष्टवादने तत्र प्राप्स्यामि इति। किन्तु चायः पीत्वा सपादसप्तवादने गृहात् निर्गत्वा अपि सम्मेलने सकाले अप्राप्नवम्। सायंकाले मम भित्तिपत्रप्रदर्शनम् आसीत् च। सर्वं कुशलम् अभवत्।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]