[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


वेतनस्य किं करोति?  (What to do with money you earn?)  

२००६-११-२१ मङ्गलवासरः (2006-11-21 Tuesday)

आवयोः पुत्रः गतत्रिवर्षात् यदा कदा कार्यं (casual jobs) करोति। पुरा सः भाचित्रकस्य विपण्यां (camera shop) कार्यम् अकरोत्। तत्परं सः तस्मात् एकवर्षात् कनीयासीम् एकां बालिकां अशिक्षयत्। अधुना सः नव्यता-वस्त्र-विपण्यां कार्यं (fashion cloth shop) करोति। ह्यः तस्य माता तम् अपृच्छत् - त्वं गतत्रिवर्षात् कार्यं करोषि, अधिकोषे (in the bank) तव कियत् राशी अस्ति। सः उत्तरम् अददात् - किमपि नास्ति अहं सर्वं व्ययं करोमि। सः यत् धनं गतत्रिवर्षे व्ययम् अकरोत् तत् अहं मम सम्पूर्ण जीवने अपि न व्ययम् अकरवम्। सः द्वि-त्रिसहस्र-डोलरं क्रीडायां पानाय च (in games and for drinks) व्ययम् अकरोत् अहं कदाचित् मम जीवने शत-डोलरात् अधिकं न व्ययम् अकरवम्। अहं तु गृहात् बहिः अनेकवारं तिष्ठामि तदापि अहं तादृशं धनं न व्ययं करोमि।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]