[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
साहाय्यं कुरु (You will have to help)
२००६-११-१९ रविवासरः (2006-11-19 Sundday)
अहं न जानामि कथं किन्तु येन केन प्रकारेण मम भार्या जानाति कदा अहं संस्कृतकार्यं करोमि। किञ्चित् कला पूर्वं यदा अहं अद्यस्य वाक्यानि लेखितुम् आरब्धवान् तस्याः दृष्टिः मम उपरि अपतत्। सा अजानत् अहं किं करोमि। सा आजानत् (ordered) - अधुना त्वं मम साहाय्यं कुरु। तस्मिन् अपि क्षणे अहं उत्थाय तया समीपम् अगच्छम् अपृच्छं च - कृपया वदतु मया किं कर्तव्यम् इति। मां दृष्ट्वा सा अकथयत् - अधुना मम अन्यानि कार्याणि सन्ति यदा तव आवश्यकता भविष्यति तदा त्वाम् आह्वास्यामि इति। इदानीम् अहं तस्याः आज्ञायाः प्रतीक्षां करोमि।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]