[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
सहस्रवर्षे एकवारम् (Once in a Millennium)
२००६-११-०८ बुधवासरः (2006-11-08 Wednesday)
वैज्ञानिकाः कथयन्ति औस्ट्रेलिदेशस्य इदम् अवर्षं (drought) गत सहस्रवर्षस्य कष्टतमम् (worst) अस्ति। अस्मात् उद्घोषणात् किं मन्तव्यम् अहं न जानामि। इयं घोषणा यस्मिन् दिवसे अभवत् तस्मिन् दिवसे राज्यप्रमुखाः (state premiers) केन्बरानगरं प्रधानमन्त्रिणा सह मिलितुम् आगच्छन्ति। मिलने ते जलाय धनम् अयाचयन्। सहस्रवर्षे कष्टतमम् अस्ति अथवा नास्ति इति अहं न जानामि किन्तु अनावृष्टिः अस्ति इति वयं सम्यग् जानीमः।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]