[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
श्रीनटवरलालः (Mr Natvarlal)
२००६-११-०४ शनिवासरः (2006-11-04 Saturday)
अद्य आवाम् एकं चिरकालिकं (old) चलचित्रम् श्रीनटवरलाल इति अपश्यम्। चलचित्रे ते शार्दुलम् (tiger) ग्राहयितुं प्रयासं कुर्वन्ति। ते तस्मात् एकः गर्तः (hole) निर्मितवन्तः। ते दूरात् शार्दुलः आगच्छति इति पश्यन्ति। किन्तु सहसा नायिका शार्दुलस्य मार्गे आगच्छति। नायकः चित्करोति - दूरं धाव इति किन्तु शार्दुलः आगच्छति। नायिकां रक्षितुं नायकः आगच्छति शार्दुलेन सह मल्लयुद्धं करोति च। इदं सर्वं भवति किन्तु नायिका ततः न सरति। नायकः पुनः-पुनः चित्करोति - दूरं गच्छ इति किन्तु नायिकापि शार्दुलेन सह मल्लयुद्धे प्रवृत्ता भवति। अहं मम मनसि अकथयम् - नायकः परिणीतः (married) नास्ति तर्हि ईदृशं करोति। यदि परिणीतः अभविष्यत् तर्हि अज्ञास्यत् यत् किमपि पुरुषः कथयति तस्य भार्या तस्य विपरीतमेव करोति इति।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]