[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]

भवान् किं लिखति (What do you write?)  

२००६-११-०१ बुधवासरः (2006-11-01 Wednesday)

आवयोः कनीयसी कन्या ज्वलिता मां सदैव पृच्छति - भवान् किं लिखति - इति। अद्य सा मम निकषा संस्कृत-शब्दकोषं अनुवाद-चन्द्रिकां च अपश्यत्। सा ते पुस्तके उत्थाय किञ्चिद् तयोः अपठत्। तदन्तरं सा माम् अकथयत् - इदानीम् अहं जानामि भवान् किं लिखति, भवान् प्रतिदिनं किञ्चित् संस्कृतं स्वयं शिक्षते (learn) तदन्तरं यत् शिक्षते तत् अन्याय लिखति।

[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]