[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


ओकलेण्डनिवासी संदीपः आगच्छत् (Auckland residing Sandeep visited)  

२००६-१०-११ बुधवासरः (2006-10-11 Wednesday)

अद्य प्रातः एकः दूरभाषः आगच्छत्। दूरभाषेण मम भार्यया मीतया सह संदीपः समवदत्। मीता संदीपः कः अस्ति इति व्यस्मरत्। संदीपः तदा अकथयत् अहं ओकलेण्डनिवासी संदीपः अहं द्विदिवसाय केन्बरानगरे अस्मि इति। तदा मीता अस्मरत् संदीपः कः अस्ति। आवां द्विवर्षपर्यन्तम् 1987-88 ओकलेण्डनगरे अवसताम्। तदा संदीपः षोडशवर्षीयः बालकः आसीत्। इदानीम् सः orthopdedic surgeon अस्ति। यावात् आवाम् ओकलेण्डनगरे वसावः तावत् तस्य परिवारस्य आवयोः विशेषा कृपा आसीत्। संदीपः सायंकाले भोजनाय गृहम् आगच्छत्। तेन सह मिलित्वा वार्तालापं कृत्वा वयम् अती आनन्दिताः अभवन्।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]