[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


विशेषाः लकार-पुरुष-वचनाः (Special tense and number)  

२००६-०९-१७ रविवासरः (2006-09-17 Sunday)

अदादि-जुहोत्यादि-स्वादी-रुधाधि-तनादि-क्र्यादि (द्वितीय-तृतीय-पञ्चम-सप्तम-अष्टम-नवम) गणानां धातुनां तिङ्‍प्रत्ययरूपाणि कर्तुं अधोलिखिताः लकार-वचनाः स्मर्तव्यम्।

() परस्मैपदे लट्-लङ्-लकारयोः  त्रयः पुरुषाः एकवचनः।

() परस्मैपदे लोट्लकारस्य प्रथमपुरुष-एकवचनः।

() परस्मैपदे आत्मनेपदे च लोट्लकारस्य उत्तमपुरुषः त्रयः वचनाः।

यथा स्वदिगणे -

परस्मैपदे लट्-लङ्-लकारयोः त्रिष्वपि पुरुषेषु एकवचने विकरणस्य गुणः भवति।

परस्मैपदे लोट्लकारस्य प्रथमपुरुष-एकवचने विकरणस्य गुणः भवति।

परस्मैपदे आत्मनेपदे च लोट्लकारस्य उत्तमपुरुषे त्रिष्वपि वचनेषु तिङ्‍प्रत्ययस्य "आट्" इति आगमः भवति।

पृष्ठः २०६, सरलसंस्कृतसरणिः - द्वितियोऽन्तिमश्च भागः, संस्कृतकार्यालयः, श्री‍अरविन्दाश्रमः, पुदुच्चेरी।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]