[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


अदादिगणा ७२ धातवः (72 adaadigana roots)

२००६-०९-०२ शनिवासरः २००६-०९-०२ षतुर्दय्

अदादिगणे ७२ धातवः सन्ति। एषः गणः द्वितीयः गणः अपि कथ्यते। पाणिनिव्याकरणे दश गणाः सन्ति। दशगणेषु सकलाः धातवः १९७० सन्ति। अदादिगणस्य प्रथमः धातुः अद् धातुः अस्ति। अस्मिन् अदादिगणे भ्वादिगणसदृशः शप् विकरणः न भवति। तस्मात् अदादिगणस्य तिङ्-प्रत्ययरूपाः सरलाः भवन्ति। किन्तु एका बाधा अस्ति। धातुः द्वे रूपे भवतः। एकं रूपं () परस्मैपदे लट्-लङ्-लकारयोः त्रिष्वपि पुरुषेषु एकवचने () परस्मैपदे लोट्-लकारस्य प्रथमपुरुष-एकवचने () परस्मैपदे आत्मनेपदे त्रिष्वपि वचनेषु उत्तमपुरुषेषु भवति। द्वितीयं रूपं अन्ये प्रयुज्यते। यथा

वेद् (to know) -> 

लट् - वेत्ति वित्तः विदन्ति, वेत्सि वित्थः वित्थ, वेद्मि विद्वः विद्मः।

लङ् - अवेत् अवित्ताम् अविदुः, अवेः-अवेत् अवित्तम् अवित्त, अवेदम् अविद्व अविद्म।

लोट् - वेत्तु वित्ताम् विदन्तुः, विद्धि वित्तम् वित्त, वेदानि वेदाव वेदाम।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]