[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


कृष्णजन्माष्टमी (The birth of Sri Krishna)  

२००६-०८-१७ गुरुवासरः (2006-08-17 Thursday)

अद्य प्रातःकाले अहं विलम्बेन अजागरम्। ह्यः रात्रौ वयं मथूरातः प्रसारितं दूरदर्शनप्रसारणम् अपश्यामः। प्रसारणः पञ्चोनद्वादशवादने आरब्धवान्। रात्रौ एकवादने समाप्तम्। प्रसारणे चलचित्रं सम्यग् आसीत् किन्तु तेन सह प्रसारितः संवादः दोषवान् तु नासीत् किन्तु उत्तमम् अपि नासीत्। अस्मिन् भूमौ सहस्रः कृष्णभक्ताः सन्ति यदि कोऽपि कृष्णभक्तः संवादं अदास्यत् तर्हि उत्तमं स्यात्। कृष्णप्रेमः दर्शयिताः अनेकाः श्लोकाः संस्कृते अन्येषां भाषायाम् अपि सन्ति। संवादे तेषां श्लोकानं योजनम् अतीव प्रभावशाली अभविष्यत्।

अद्यावति वडोदरानगरे अतीवृष्टी भवति। ह्यः सायंकाले वर्षा न अभवत् किन्तु मध्यरात्रौ कृष्णजन्मकाले प्रचुरं जलम् अवर्षत्।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]