[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


मेक-मोहनौ  रेखा (MacMahon Line)  

२००६-०८-१६ बुधवासरः (2006-08-16 Wednesday)

ह्यः अहं स्वतन्त्रतादिवसस्य दूरदर्शन-कार्यक्रमम् अपश्यम्। तेषाम् एकं कार्यक्रमं अभीनेता ओमपूरी हिन्दीभाषायां प्रस्तुतवान्। तत् कार्यक्रमं भारतस्य इतिहासे आसीत्। सः भारत-चीन-सीमा मेक-मोहन रेखा इति कथितवान्। तत्त्वतः तयाः रेखायाः नाम मेकमान रेखा अस्ति। किन्तु वयं भारतीयाः न जानीमः Mahon शब्दस्य उच्चारणः कथं भवति। हिन्दी-समाचारपत्रे सर्वदा ते मेक-मोहन इत्येव लिखन्ति। मेक-मोहन इति वयं बोधामः एकः आङ्ग्लः मेकः एकः भारतीयः मोहनः मिलित्वा भारत-चीन-सीमा निर्धारितवन्तौ तस्मात् तस्याः नाम मेक-मोहन रेखा। वस्तुतः मेकमान रेखा एकस्य जनस्य नाम उपरि अस्ति सोऽपि आङ्ग्लः कोऽपि भारतीयः तेषां नास्ति।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]