[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


हरिमोहनझावर्यः   (Call from Hari Mohan Jha)  

२००६-०७-१३ गुरुवासरः (2006-07-13 Thursday)

गत मङ्गलवारे प्रातःकाले मां कोऽपि दूरभाषम् अकरोत्। सः माम् अपृच्छत् - ऊह अहं कोऽस्मि (guess, who am I) अहं तव मित्रम् अस्मि। मया भ्रमितम्। अहं अत्र डेलावेयरे अस्मि नाधिकाः जानन्ति तस्मात् मम दूरभाष-अङ्कं भाग्ये कोऽपि जानाति। यदि अहं तस्य वाणीम् अभिज्ञातुं न शक्नोमि तर्हि सः कथं मम दूरभाषं प्राप्तवान्। किञ्चित् काल पर्यन्तं सः अवदत् - अहं हरिमोहनझाः अस्मि, तव महाविद्यालयस्य सहपाठि। अहं तम् अन्तिमवारं १९७९वर्षे मिलितवान्। सः किं करोति कुतः अस्ति ततपश्चात् कदापि न शृणोमि।

सः दूरभाषेण अकथयत् - अहं दोहा-मस्कतराज्ये वसामि। अधुना भारते अवकाशे आगच्छम्। तव दूरभाषं तव भार्यया प्राप्नोमि। तव केन्बरा-दूरभाषं तु प्रथमं आवयोः लखन‍ऊनगरस्थेन मित्रेण राजीवेन प्राप्नोमि। अन्ते सः मां प्रतिजानाति सः अवश्यं केन्बरानगरम् आगमिष्यति।

तेन सह वार्तलापं कृत्वा मम मनसि महाविद्यालयदिवसानाम् अनेकाः प्रसङ्गाः च आगतवन्तः। हरिमोहनः एकः विलक्षणः पुरुषः आसित्। मम मित्रं राजीवः दूरभाषम् अकथयत् - हरिमोहनः यथा पूर्वम् आसीत् तथा अधुना अपि अस्ति।


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]